Aapaha Suktam in Sanskrit - आपः सुक्तम्

॥ आपः  सुक्तम् ॥

आपो हि ष्ठा मयोभुवस्था न ऊर्जे दधातन ।

महे रणाथ चक्षसे ॥१॥


यो वः शिवतमो रसस्तस्य भाजयतेह नः ।

उशतीरिव मातरः ॥२॥


तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।

आपो जनयथा च नः ॥३॥


शं नो देवीरभिष्टय आपो भवन्तु पीतये ।

शं योरभि स्रवन्तु नः ॥४॥


ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।

अपो याचामि भेषजम् ॥५॥


अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।

अग्नि च विश्वशंभुवम् ॥६॥

 

आपः पृणीत भेषजं वरूथं तन्वेऽ मम ।

ज्योक्च सूर्यं दृशे ॥७॥


इदमापः प्र वहत यत्किं च दुरितं मयि ।

यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥८॥

 

आपो अद्यान्वचारिषं रसेन समगस्महि ।

पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥९॥

No comments:

Post a Comment