Kaalika Ashtakam in Sanskrit - श्री कालिकाष्टकम्

॥ श्री कालिकाष्टकम् ॥

गलद्रक्तमुण्डावलीकण्ठमाला

महोघोररावा सुदंष्ट्रा कराला ।

विवस्त्रा श्मशानालया मुक्तकेशी

महाकालकामाकुला कालिकेयम् ॥१॥


भुजेवामयुग्मे शिरोऽसिं दधाना

वरं दक्षयुग्मेऽभयं वै तथैव ।

सुमध्याऽपि तुङ्गस्तना भारनम्रा

लसद्रक्तसृक्कद्वया सुस्मितास्या ॥२॥


शवद्वन्द्वकर्णावतंसा सुकेशी

लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।

शवाकारमञ्चाधिरूढा शिवाभिश्_

चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥३॥


स्तुतिः

विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्

समाराध्य कालीं प्रधाना बभूबुः ।

अनादिं सुरादिं मखादिं भवादिं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥१॥


जगन्मोहनीयं तु वाग्वादिनीयं

सुहृत्पोषिणीशत्रुसंहारणीयम् ।

वचस्तम्भनीयं किमुच्चाटनीयं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥२॥


इयं स्वर्गदात्री पुनः कल्पवल्ली

मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।

तथा ते कृतार्था भवन्तीति नित्यं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥३॥


सुरापानमत्ता सुभक्तानुरक्ता

लसत्पूतचित्ते सदाविर्भवत्ते ।

जपध्यानपूजासुधाधौतपङ्का

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥४॥


चिदानन्दकन्दं हसन् मन्दमन्दं

शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।

मुनीनां कवीनां हृदि द्योतयन्तं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥५॥


महामेघकाली सुरक्तापि शुभ्रा

कदाचिद् विचित्राकृतिर्योगमाया ।

न बाला न वृद्धा न कामातुरापि

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥६॥


क्षमस्वापराधं महागुप्तभावं

मया लोकमध्ये प्रकाशिकृतं यत् ।

तव ध्यानपूतेन चापल्यभावात्

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥७॥


यदि ध्यानयुक्तं पठेद् यो मनुष्यस्_

तदा सर्वलोके विशालो भवेच्च ।

गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥८॥

No comments:

Post a Comment