Kshetrapati Suktam in Sanskrit - क्षेत्रपति सुक्तम्

 ॥ क्षेत्रपति  सुक्तम् ॥

क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।

गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥


क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासुधुक्ष्व ।

मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु॥२॥

 

मधुमतीरोषधीर्द्याव आपो मधुमन्नोभवत्वन्तरिक्षम् ।

क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनंचरेम ॥३॥


शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।

शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥


शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः।

तेनेमामुप सिञ्चतम् ॥५॥


अर्वाची सुभगे भव सीते वन्दामहे त्वा ।

यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥


इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।

सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥


शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशाअभि यन्तु वाहैः ।

शुनं पर्जन्यो मधुना पयोभीः शुनासीराशुनमस्मासु धत्तम् ॥८॥

No comments:

Post a Comment