Madhurashtakam in Sanskrit - मधुराष्टकम्

॥ मधुराष्टकम् ॥

अधुरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।

हदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥


वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।

चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥


वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ।

नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम्॥


गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।

रुपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्॥


करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।

वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥


गुन्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।

सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥


गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम्।

दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम्॥


गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।

दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्॥

No comments:

Post a Comment