॥ रङ्गनाथाष्टकम् ॥
आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपेश्रुतिमूर्तिरूपे ।
शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपेरमतां मनो मे ॥१॥
कावेरितीरे करुणाविलोले मन्दारमूलेधृतचारुकेले ।
दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीलेरमतां मनो मे ॥२॥
लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासेरविबिम्बवासे ।
कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतांमनो मे ॥३॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्येसुरनाथवन्द्ये ।
व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्येरमतां मनो मे ॥४॥
ब्रह्माधिराजे गरुडाधिराजे वैकुण्ठराजेसुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे श्रीरङ्गराजेरमतां मनो मे ॥५॥
अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रेससमुद्रनिद्रे ।
श्रितैकभद्रे जगदेकनिद्रे श्रीरङ्गभद्रे रमतांमनो मे ॥६॥
सचित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायीकमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी श्रीरङ्गशायीरमतां मनो मे ॥७॥
इदं हि रङ्गं त्यजतामिहाङ्गं पुनर्न चाङ्गं यदिचाङ्गमेति ।
पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं याने विहङ्गंशयने भुजङ्गम् ॥८॥
रङ्गनाथाष्टकम्पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वान् कामानवाप्नोतिरङ्गिसायुज्यमाप्नुयात् ॥९॥
No comments:
Post a Comment