Pandurangashtakam in Sanskrit - पाण्डुरङ्गाष्टकम्

॥ पाण्डुरङ्गाष्टकम् ॥

महायोगपीठे तटे भीमरथ्या

वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।

समागत्य तिष्ठन्तमानन्दकन्दं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥१॥


तडिद्वाससं नीलमेघावभासं


रमामन्दिरं सुन्दरं चित्प्रकाशम् ।

परं त्विष्टिकायां समन्यस्तपादं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥२॥


प्रमाणं भवाब्धेरिदं मामकानां


नितम्बः कराभ्यां धृतो येन तस्मात् ।

विधातुर्वसत्यै धृतो नाभिकोशः

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥३॥


स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे


श्रिया जुष्टकेयूरकं श्रीनिवासम् ।

शिवं शान्तमीड्यं वरं लोकपालं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥४॥


शरच्चन्द्रबिम्बाननं चारुहासं


लसत्कुण्डलाक्रान्तगण्डस्थलाङ्गम् ।

जपारागबिम्बाधरं कञ्जनेत्रं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥५॥


किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं


सुरैरर्चितं दिव्यरत्नैरनर्घैः ।

त्रिभङ्गाकृतिं बर्हमाल्यावतंसं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥६॥


विभुं वेणुनादं चरन्तं दुरन्तं


स्वयं लीलया गोपवेषं दधानम् ।

गवां वृन्दकानन्ददं चारुहासं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥७॥


अजं रुक्मिणीप्राणसञ्जीवनं तं


परं धाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नार्तिहं देवदेवं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥८॥


स्वयं पाण्डुरङ्गस्य वै पुण्यदं ये


पठन्त्येकचित्तेन भक्त्या च नित्यम् ।

भवाम्भोनिधिं तेऽपि तीर्त्वान्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति ॥९॥

No comments:

Post a Comment