Durga Suktam in Sanskrit - दुर्गा सूक्तम्

 दुर्गा सूक्तम् 

जातवेदसे सुनवाम सोममरातीयतोनिदहाति वेदः ।

स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुंदुरितात्यग्निः ॥१॥


तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनींकर्मफलेषु जुष्टाम् ।

दुर्गां देवीँशरणमहं प्रपद्ये सुतरसि तरसेनमः ॥२॥


अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।

पूश्च पृथ्वी बहुला न उर्वी भवा तोकायतनयाय शंयोः ॥३॥


विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावादुरितातिपर्षि ।

अग्ने अत्रिवन्मनसा गृणानोऽस्माकंबोध्यविता तनूनाम् ॥४॥


पृतनाजितँसहमानमुग्रमग्निँ हुवेमपरमात्सधस्थात् ।

स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः ॥५॥


प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सि ।

स्वां चाग्ने तनुवं पिप्रयस्वास्मभ्यं चसौभगमायजस्व ॥६॥


गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्रविष्णोरनुसंचरेम ।

नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोकइह मादयन्ताम् ॥७॥

No comments:

Post a Comment