Purush Suktam in Sanskrit - पुरुष सुक्तम्

 पुरुष सुक्तम् 


सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङुलम् ॥१॥


पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥


एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतंदिवि ॥३॥


त्रिपादूर्ध्व उदैत्पूरुषः पादोऽस्येहाभवत्पुनः।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥


तस्माद्विराळजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥


यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मःशरद्धविः ॥६॥


तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥ 


तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये॥८॥


तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।

छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥९॥


तस्मादश्वा अजायन्त ये के चोभयादतः ।

गावोः ह जज्ञिरे तस्मात् तस्माज्जाताअजावयः ॥१०॥ 


यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्य कौ बाहू का ऊरू पादाउच्येते ॥११॥


ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यःकृतः ।

ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१२॥


चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥


नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौःसमवर्तत ।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँअकल्पयन् ॥१४॥


सप्तास्यासन् परिधयस्त्रिः सप्त समिधःकृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥


यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणिप्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वेसाध्याः सन्ति देवाः ॥१६॥

No comments:

Post a Comment